This page has not been fully proofread.

सोमनाथशतकम् *
+ सोमनाथकृतम्
 
आर्यासूनुसमानं प्रणम्यमानं धरासुरैः प्रवरैः ।
झापाम्बया तयालं मुद्गलरमालम्बदं कलये ॥ १ ॥
 
श्वृत्ताभिख्या हृतार्या श्रुतविविधगणां छन्दसां७ वर्णनीयां
यातां सर्वादिमत्वं' सुरगण ९ कलितां भासमत्वं १० दधानाम् ।
११ युक्तं स्थानं नयन्तीं लघुमपि सकलं बिभ्रतीं मालयायां (मात्रयाल)
वन्दे १२वार्धीभवर्णां भृतमुनियतिकां स्रग्धरां शम्भुमूर्तिम् ॥ २ ॥
 
नागपुरस्थभोसलसंस्कृतमहाविद्यालये दृष्टा मया ग्रन्थस्यास्य मातृका । विद्या-
लयाध्यक्षैः श्रीशङ्करशास्त्रि - आर्वीकर - महोदयैः प्रतिलिपिरस्याः सदयं प्रेषिता ॥
 
+ अस्य शतकस्य प्रणेता मौद्गलि : सोमनाथ : सकलकलेत्युपनामभाक् जाति.
माला- अन्योक्तिमालयो: कर्ता, रागविबोधो नाम प्रसिद्धः सङ्गीतशास्त्रग्रन्थश्चाने नैव
१६०९ क्रिस्तवर्षे व्यरचि ।
 
ज्ञाता इति मातृकायाम् । 'झम्पा' 'झापा' इति कवेरन्यासु कृतिषु ।
कवेर्मातुरियं नामेति भाति । २. मुद्गलः कवे: पिता ।
 
१.
 
अत्र शम्भुमूर्तिस्रग्धरावृत्तयो श्लेषः ।
मातृकायां '०ख्यां' इति व्यस्तं दृश्यते ।
 
आर्या तन्नामकः जातिरिति ख्यातः छन्दोविशेषः ।
 
पार्वती ।
 
गणा: वृत्तेऽक्षरगणाः, शिवानुचरा भूतगणाश्च ।
 
.
 
छन्दः पद्यं वेदश्च । ८. सर्वादिमत्वं सर्वादौ मुखे मगणः स्रग्धरायाम् ।
९. देवसमूहा: देवतावाचक- अक्षरगणाश्च ।
 
१०.
 
भा ४ ; चतुस्समत्वमिति यावत् । समवृत्तं हि स्रग्धरा । अन्यत्र भायां
कान्त्यामसमत्वमसमानत्वं दधानाम् ।
 
११. युक्तं संयुक्ताक्षरयुतं योगिनं च । लघु लघ्वक्षरं, लघुभूतं जनं च ।
मात्रया गुरुलघुन्यायेनेति वृत्ते । शम्भुमूर्तिपक्षे मात्रया शक्त्येकदेशेन सकलम् अलं
बिभ्रतीम् ।
 
६.
 
१२. वार्धीभवर्णामिति । वार्धि : ४, इभः ८, प्रतिपादं स्रग्धरायां २१ वर्णाः,
आहत्य ८४ भवन्ति । शिवमूर्तिपक्षे वार्धीभ: समुद्रोत्यो गज ऐरावत: तद्वर्णां
धवलामिति यावत् । भृतमुनियतिकाम् मुनि: ७; प्रतिसप्तमाक्षरं स्त्रग्धरायां यतिः,
भृता मुनयो यतयश्च ययेति अन्यन्त्र । स्रग्धरा तन्नाम वृत्तं, मालाधारिणी च ॥