This page has been fully proofread once and needs a second look.

आर्यासूनुसमानं प्रणम्यमानं धरासुरैः प्रवरैः ।
[^१]झापाम्बया तयालं मुद्गल[^२]मालम्बदं कलये ॥ १ ॥
 
[^३]वृत्ताभिख्या[^४]हृतार्यां[^५] श्रुतविविधगणां[^६] छन्दसां[^७] वर्णनीयां
यातां सर्वादिमत्वं[^८] सुरगण[^९]कलितां भासमत्वं[^१०] दधानाम् ।
[^११]युक्तं स्थानं नयन्तीं लघुमपि सकलं बिभ्रतीं मालयायां (मात्रयालं)
वन्दे [^१२]वार्धीभवर्णां भृतमुनियतिकां स्रग्धरां शम्भुमूर्तिम् ॥ २ ॥
 
* नागपुरस्थभोसलसंस्कृतमहाविद्यालये दृष्टा मया ग्रन्थस्यास्य मातृका । विद्यालयाध्यक्षैः श्रीशङ्करशास्त्रि-आर्वीकर-महोदयैः प्रतिलिपिरस्याः सदयं प्रेषिता ॥
+ अस्य शतकस्य प्रणेता मौद्गलि: सोमनाथ: सकलकलेत्युपनामभाक् जाति-माला-अन्योक्तिमालयो: कर्ता, रागविबोधो नाम प्रसिद्धः सङ्गीतशास्त्रग्रन्थश्चानेनैव १६०९ क्रिस्तवषें व्यरचि ।
 
[^१] ज्ञाता-इति मातृकायाम् । 'झम्पा' 'झापा' इति कवेरन्यासु कृतिषु । कवेर्मातुरियं नामेति भाति ।
 
[^२] मुद्गलः कवे: पिता ।
 
[^३] अत्र शम्भुमूर्तिस्रग्धरावृत्तयो श्लेषः ।
 
[^४] मातृकायां '०ख्यां' इति व्यस्तं दृश्यते ।
 
[^५] आर्या तन्नामकः जातिरिति ख्यातः छन्दोविशेषः । पार्वती ।
 
[^६] गणा: वृत्तेऽक्षरगणाः, शिवानुचरा भूतगणाश्च ।
 
[^७] छन्दः पद्यं वेदश्च ।
 
[^८] सर्वादिमत्वं सर्वादौ मुखे मगणः स्रग्धरायाम् ।
 
[^९] देवसमूहा: देवतावाचक-अक्षरगणाश्च ।
 
[^१०] भा ४; चतुस्समत्वमिति यावत् । समवृत्तं हि स्रग्धरा । अन्यत्र भायां कान्त्यामसमत्वमसमानत्वं दधानाम् ।
 
[^११] युक्तं संयुक्ताक्षरयुतं योगिनं च । लघु लघ्वक्षरं, लघुभूतं जनं च । मात्रया गुरुलघुन्यायेनेति वृत्ते । शम्भुमूर्तिपक्षे मात्रया शक्त्येकदेशेन सकलम् अलं बिभ्रतीम् ।
 
[^१२] वार्धीभवर्णामिति । वार्धि : ४, इभः ८, प्रतिपादं स्रग्धरायां २१ वर्णाः, आहत्य ८४ भवन्ति । शिवमूर्तिपक्षे वार्धीभ: समुद्रोत्यो गज ऐरावत: तद्वर्णां धवलामिति यावत् । भृतमुनियतिकाम् मुनि: ७; प्रतिसप्तमाक्षरं स्त्रग्धरायां यतिः, भृता मुनयो यतयश्च ययेति अन्यन्त्र । स्रग्धरा तन्नाम वृत्तं, मालाधारिणी च ॥