This page has not been fully proofread.

सोमनाथशतकम् *

+ सोमनाथकृतम्
 

 
आर्यासूनुसमानं प्रणम्यमानं धरासुरैः प्रवरैः ।

झापाम्बया तयालं मुद्गलमालम्बदं कलये ॥ १ ॥
 
श्

 
वृत्ताभिख्या हृतार्यायां५ श्रुतविविधगणां छन्दसां७ वर्णनीयां

यातां सर्वादिमत्वं' सुरगण कलितां भासमत्वं १० दधानाम् ।

११ युक्तं स्थानं नयन्तीं लघुमपि सकलं बिभ्रतीं मालयायां (मात्रयालं)

वन्दे १२वार्धीभवर्णां भृतमुनियतिकां स्रग्धरां शम्भुमूर्तिम् ॥ २ ॥
 

 
नागपुरस्थभोसलसंस्कृतमहाविद्यालये दृष्टा मया ग्रन्थस्यास्य मातृका । विद्या-
लयाध्यक्षैः श्रीशङ्करशास्त्रि - आर्वीकर - महोदयैः प्रतिलिपिरस्याः सदयं प्रेषिता ॥
 

+ अस्य शतकस्य प्रणेता मौद्गलि : सोमनाथ : सकलकलेत्युपनामभाक् जाति.
-माला- अन्योक्तिमालयो: कर्ता, रागविबोधो नाम प्रसिद्धः सङ्गीतशास्त्रग्रन्थश्चाने नैव
१६०९ क्रिस्तवर्षेषें व्यरचि ।
 

 
१.
ज्ञाता -इति मातृकायाम् । 'झम्पा' 'झापा' इति कवेरन्यासु कृतिषु ।

कवेर्मातुरियं नामेति भाति । २. मुद्गलः कवे: पिता ।
 
१.
 

अत्र शम्भुमूर्तिस्रग्धरावृत्तयो श्लेषः ।

मातृकायां '०ख्यां' इति व्यस्तं दृश्यते ।
 

आर्या तन्नामकः जातिरिति ख्यातः छन्दोविशेषः ।
 

पार्वती ।
 

गणा: वृत्तेऽक्षरगणाः, शिवानुचरा भूतगणाश्च ।
 
.
 

छन्दः पद्यं वेदश्च । ८. सर्वादिमत्वं सर्वादौ मुखे मगणः स्रग्धरायाम् ।

९. देवसमूहा: देवतावाचक- अक्षरगणाश्च ।
 
१०.
 

भा ४ ; चतुस्समत्वमिति यावत् । समवृत्तं हि स्रग्धरा । अन्यत्र भायां

कान्त्यामसमत्वमसमानत्वं दधानाम् ।
 

११. युक्तं संयुक्ताक्षरयुतं योगिनं च । लघु लघ्वक्षरं, लघुभूतं जनं च ।

मात्रया गुरुलघुन्यायेनेति वृत्ते । शम्भुमूर्तिपक्षे मात्रया शक्त्येकदेशेन सकलम् अलं

बिभ्रतीम् ।
 
६.
 

१२. वार्धीभवर्णामिति । वार्धि : ४, इभः ८, प्रतिपादं स्रग्धरायां २१ वर्णाः,

आहत्य ८४ भवन्ति । शिवमूर्तिपक्षे वार्धीभ: समुद्रोत्यो गज ऐरावत: तद्वर्णां

धवलामिति यावत् । भृतमुनियतिकाम् मुनि: ७; प्रतिसप्तमाक्षरं स्त्रग्धरायां यतिः,

भृता मुनयो यतयश्च ययेति अन्यन्त्र । स्रग्धरा तन्नाम वृत्तं, मालाधारिणी च ॥