This page has been fully proofread once and needs a second look.

(XI)
 
मलयमारुतस्य भाविषु स्पन्देषु प्रकाशनार्थं विदुषां रसिकानां हस्तलिखितमातृकालयस्थानां च सुहृदां सहयोगः प्रार्थ्यते । खण्डकाव्यादिलघुग्रन्थानद्यावध्यमुद्रितान् प्रेष्य समारम्भमिममविच्छिन्नाभिवृद्धिसंपादनेन सफलयन्तु ते । मलयमारुतस्य स्पन्दैरुत्प्राणिता संस्कृतसाहिती अप्रकाशशिशिरजडीभावमुत्सृज्य, मन्ये, स्वीयैः अपर्याप्तैरासेचनकैः विभ्रमैः भावैश्च सहृदयानानन्दयिष्यति ॥
 
महाशिवरात्रिः
१८-२-६६
 
वे. राघवः