This page has been fully proofread once and needs a second look.

(x)
 
इदमपि लघुग्रन्थप्रकाशनकार्यं सूचितम् । तदर्थं 'मलयमारुत' - नामा कश्चन काव्यमालागुच्छकानुसारी तदातदा प्रकाश्यमानः संग्रहो मया केन्द्रीय-विद्या-पीठद्वारा संपिपादयिषित इति सदस्येभ्यो निवेदितं, तच्च तैरनुमोदितम् । तस्य 'मलयमारुतस्य' अयं प्रथम: स्पन्दः विदुषां रसिकानां च हृदयस्पर्शी नूनं
तानुत्पुलकयिष्यतीति विश्वसिमि ।
 
काव्यमालागुच्छकेषु या रीतिरनुसृता सैव अस्मिन् मलयमारुतेऽनुसरिप्यते । खण्डकाव्य-लघुरूपक-शतक-स्तोत्र-सुभाषितप्रायं संस्कृतसाहित्यजातमत्र
प्रकाशयिष्यते । यत्र कस्यापि लघुग्रन्थस्य एकाधिका: मातृका: सुलभाः, तत्र मातृकासंवादपुरस्सरं स लघुग्रन्थः सम्यक्संशोध्य मुद्रापयिष्यते । ग्रन्थतत्कर्तृविषये ज्ञायते चेद्वृतान्त:, सः अत्यन्तं संग्रहेण दास्यते । एवमेव च तत्र तत्र ग्रन्थपङ्क्तिवैशद्यार्थमपेक्षिता लघ्व्यः टिप्पण्यश्च ।
 
अस्मिन् प्रथमे स्पन्दे नव लघुग्रन्था उपहृताः । यथोचितं वरप्रसादिनः 'उच्छिष्टगणपतेः' 'स्तवेन' समारम्भः । तदनन्तरं वागधिष्ठात्र्या 'महाराज्या: ' काश्मीरककृष्णकविकृतं 'स्तोत्रम्' । शिवाद्वैतानुभवशालिनी 'दशश्लोकी' १४-शतकीयस्य होय्सलास्थानविदुषो विद्याचक्रवर्तिनः कृतिस्तदनन्तरम् । पश्चात् श्रीशङ्कराचार्यकृतभजगोविन्दप्रतिरूपकतया त्यागराजकविना कृत 'उपदेशशिखामणिः'। 'षडृतुवर्णन'मज्ञातकर्तृकं तञ्जापुरस्थ-सरस्वतीमहाल-पुस्तकालयात् । गौरमोहनसङ्कलितः 'कवितामृतकूप:' मद्रपुरराजकीयहस्तलिखितकोशागारस्थां 'मातृकामालम्ब्य मुद्रितः; अयं सार्धशतकवर्षेभ्यः पूर्वं कलकत्तानगरे मुद्रित इति श्रूयते । 'नराभरण'-नामा सुभाषितसंग्रहः पूर्वोद्दिष्टपुस्तकालयस्थमातृकातः उद्धृतः । 'सोमनाथशतकं' सङ्गीतलक्षणविदा कविना सोमनाथेन विरचितं सदुपदेशपरमन्ते भगवद्भक्तिपरं च । अन्ते सप्तदशशतकीयेन जयपुरास्थानकविना हरिजीवनमिश्रेण विरचितेषु पञ्चषेषु प्रहसनप्रायेषु एकाङ्करूपकेषु एकं 'विबुधमोहनं' नाम, यत्र तत्तच्छास्त्रसिद्धान्तचर्चापूर्वे साहित्यविद्यायाः पारम्यं प्रतिपाद्यते । एषु महाराज्ञीस्तोत्रस्य, उपदेशशिखामणेश्च आघारतया मातृकात्रयं मातृकाद्वयं चोपात्तम् ।