This page has not been fully proofread.

सप्तविंशः पाठः - श्री युद्धदेवः
 
दृश्यते । बुद्धमतावलम्बिनः सम्प्रति भारतवर्ष सिंहलद्वीपे
वर्माप्रभृतिषु देशेषु च प्रतिवसन्ति । बुद्धमतमिदं जनैरुत्कृष्टानां
मतानामन्यतमत्वेन परिगण्यते ॥
 
91
 
१) प्रश्नाः- १. बुद्धदेवः कस्मिन् वंशे जातः ? कयोः पुत्रः ?
२ प्राप्तवयस्कः कुमारः किं किं परिशीलितवान् ? ३. गौतम-
बुद्धः प्रकृत्या कीदृश आसीत् ? ४. स कुत्र कुत्र तपश्चकार ?
५. कुत्रासौ बोधिमलभतः ६. बोधिवृक्षमधिकृत्य किं जानीध्वे?
७ तत्वप्रकाशमधिनत्य स किमकरोत् ?
८. तन्मतस्य परमः सिद्धान्तः कः ?
 
९ कुत्र कदा स जातः ? कुत्र कश च निर्वाण प्राप्तः ?
१०. तन्मतानुयायिनः सम्प्रति कुत्र भूयस्ता प्रतिवसन्ति ?
२) आख्यातानां स्थाने क्तवत्वन्तानि रूपाणि निवेशयत-
१) शुद्धोदनः कुमारं महताऽऽदरेण पोषयामास ।
२) स दशवर्षाणि बन्धुभिः ला वसति स्म ।
३) स नूतनं मतं लोके प्रचारयामास ।
४) स जनैरनुसरणीयां सरणि दर्शयामास ॥
३) साधम्, मित्रम्, कलत्रम् - एतैः पृथक् वाक्यानि रचयत ॥
४) पर्यायाः-
बुद्धः २२ – सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः ।
समन्तभद्रो भगवान् मारजिल्लोकजिज्जिनः ॥
पडभिशो दशवलोऽद्वयवादी विनायकः ।
मुनीन्द्रः श्रीधनः शास्ता मुनिः शाक्यमुनिस्तु यः
स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः ॥