This page has not been fully proofread.

सप्तविंशः पाठः - श्री बुद्धदेवः
 
अष्टादशे वर्षे तस्य निरतिशयलावण्यया यशोधराख्यया
राजसुतया सह विवाहो निर्वर्तितः पित्रा । तयोरेकः सुतः
समजनि रहुलो नाम । विवाहानन्तरमसौ गौतमो विभवैर्विराज-
माने राजभवने दश वर्षाणि बन्धुभिः सार्धं वसति स्म । नासौ
तेन निर्वृति प्रपेदे ॥
 
89
 
गौतमः प्रकृत्या विरक्तचित्तः कारुण्यनिधिः परदुःख-
दुःखितासीत् । जनानां जरामरणे विलोक्य तस्य चेतो व्या-
कुलतामगात् । जनैरनुभूयमानाः कृशास्तस्य हृदयं तुदन्ति
स्म । कथमेते जनाः क्लेशान्मुक्ता भवेयुरिति चिन्तापरो जातः ।
ततः स तदुपायमन्विष्यन्नेकस्यां गत्रौ निद्राणेषु गृहजनेषु
पितरं पुत्रं कलत्रं च वञ्चयित्वा तपोवनाभिमुखः प्रतस्थे ॥
 
तपोवनमासाद्यासौ शिरो मुण्डयित्वा कापायाम्बरं धृत्वा
चिरं तपस्विभिः सार्धमवसत् । नामौ तत्र जनानां क्लेशान्मुक्ते-
रुपायमलभत । अनन्तरं गयां प्राप्य तत्रासौ पडवषाणि शिष्यैः
साधमत्यवाहयत् । स च देशः पश्चात् वुद्धगयेत्याख्यां जगाम ।
बुद्धगया सम्प्रति मनोहरैर्विहारैरलङ्कृतं बौद्धानां महत्
पुण्यक्षेत्रम् ॥
 
अनन्तरं गौतमः कस्यचित पिप्पलतरोर्मूलमासाद्य तत्र
योगपीठ मधिरुस्तीव्रं तपोऽतप्यत । तत्रासौ बोधिमलभत ।
बोधिर्नाम निश्चिता बुद्धिः । सोऽयं पिप्पलवृक्षः पश्चात्
बोधिवृक्ष इति प्रथामवाप ॥