This page has not been fully proofread.

संस्कृतद्वितीयादर्शे
 
राजसूनुरसौ गुणवान् रूपवान् बलवान् धीरः शूरवासीन् ।
तस्य जननात् परं सप्तमे दिवसे मायादेवी दिवं जगाम । ततः
प्रभृति शुद्धोदन एव तत्संवर्धनपरो बभूव । भविष्यचक्रवर्तिन-
मात्मनः कुमारं महताऽऽदरेण पोषयामास शुद्धोदनः ॥
 
88
 
अथ प्राप्तवयस्क : कुमारः पित्रा नियुक्तो नानादेशीया
वर्णमाला भाषाश्च पर्यशीलयत । राजोचिताः सर्वा विद्याः
कलाश्च जग्राह । धनुर्वेदे नितरां कुशलोऽभवत् । सर्वस्वामि-
गुणोपेतः स्वकुमारः समस्तसामन्ताभिवन्दितचरण चक्रवर्ती
भविष्यतीति मन्यमानः शुद्धोदनश्चेतसि परमानन्दमभजत् ॥