This page has not been fully proofread.

षड्विंशः पाठः – साधवः
 
CONTA
 
२६. साधवः
 
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः ।
अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥
यथा चित्तं तथा वाचो यथा वाचस्तथा क्रियाः ।
चित्त वाचि क्रियायां च साधूनामेकरूपता ॥
 
नालिकेरसमाकारा दृश्यन्ते भुवि सज्जनाः ।
अन्ये बदरिकाकारा बहिरेव मनोहराः ॥
श्लोक: सुश्लोकतां याति यत्र तिष्ठन्ति साधवः ।
लकारो छुप्यते तत्र यत्र तिष्ठन्त्यसाधवः ॥
उपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् ।
सदा लोकहिते युक्ता रत्नदीपा इवोत्तमाः ॥
परपरिवादे मूकः परनारीदर्शनेऽपि जात्यन्धः ।
पङ्गः परधनहरणे स जयति लोके महापुरुषः ॥
प्रियप्राया वृत्तिर्विनयमधुरो वाचि नियमः
 
प्रकृत्या कल्याणी मतिरनवगीतः परिचयः ।
पुरो वा पश्चाद्वा तदिदमविपर्यासितरसं
 
चरित्रं साधूनामनुपघि विशुद्धं विजयते ॥
 
85
 

 
2