This page has not been fully proofread.

संस्कृतद्वितीयादर्श
 
तृतीया श्रेणिः परश्शतैरभ्रङ्कपैः शृङ्गैः संशोभते । तेषु
पञ्चचत्वारिंशच्छृङ्गात्यन्तमुन्नतानि । तेषां तुङ्गतमं गौरी-
शङ्कराख्यं शृङ्गं द्व्युत्तर नवविंशतिसहस्त्रं पदान्युच्छ्यने । नास्यां
श्रण्यां वृक्षः प्ररोहन्ति । नापि जन्तवो जीवन्ति । किन्त्वेषा
श्रेणी सर्वकालं शिलाकठिनया हिमान्या प्रावृता वर्तते । या
खलु हिमानी निदाघकाले विलीयमाना वृष्टिमन्तरेणापि
स्रोतस्विनीषु स्रोतांस्यभिवर्धयति । अत एवास्य पर्वतस्य
हिमालयव्यपदेशः ॥
 
82
 
भारतीयाः विदेशीयाच महता प्रयत्नेन गौरीशङ्करभृङ्गम्
आरोढुं चिराय प्रायतन्त । तत्र भारतीयाः सुधीराः धीमन्तः
विजयिनः अभूवन् । तेभ्यः राष्ट्रपतिना 'पद्मश्री, 'पद्मभूषण'
इत्यादीनि बिरुदानि दत्तानि । अहो ! भारतीयानां धन्यता ।
हिमालयोऽयं पूर्वपश्चिमप्रान्तयोः क्रमेण अवनतः वर्तते ।
विद्यन्ते च तत्र तिबतदेशप्रापका दुर्गमाः पन्थानः । यद्ययं
सर्वत्राप्यैकरूप्येण तुङ्गोऽभविष्यत् तर्हि तद्वाह्या जनास्तया
दिशा भारतवर्षं प्रवेष्टं नाशक्ष्यन् ॥
 
हिमाचलादस्माद्भङ्गाप्रभृतयो नद्यः सिन्धुप्रभृतयो नदा-
श्रोद्भूय भारतभूमौ प्रवहन्ति । यो हि वायुना नीयमानान्
मेघान् जलकणांश्च निरुन्धन् नानाविधानां नदीनां प्रभवता -
मृच्छति । भारतवर्षस्य सम्पत्समृद्धौ हिमालय एव मुख्यो
हेतुः । अत एवैनं देवतात्मानमाकलयन्ति भारतीयाः ॥