This page has not been fully proofread.

पञ्चविंशः पाठः- हिमालयः
२५. हिमालयः
 
अस्त्युत्तरस्यां दिशि देवतात्मा
हिमालयो नाम नगाधिराजः ।
पूर्वापरौ तोयनिधी वगाह्य
 
स्थितः पृथिव्या इव मानदण्डः ॥
 
81
 
( श्री काळिदासविरचिते कुमारसंभवे 1st sloka)
अस्ति भारतखण्डस्योत्तरस्यां दिशि हिमालयो नाम
महीधरः; यः पूर्वापरौ तोयनिधी बगाह्य स्थितो भारतवर्षस्यो-
दीचीं सीमानमापादयति । यस्य च दैर्घ्यम् अष्टशतं क्रोशाः ।
विस्तारस्तु अवरतः पञ्चसप्ततिः क्रोशाः, परमतः पञ्चाशदुत्तर-
शतम् क्रोशाश्च भवन्ति । दैर्येण वैशाल्येन औन्नृत्येन च
हिमालयोऽयं सर्वान् पर्वतानतिशेते । न केवलं भारतखण्डे,
किन्तु समग्रेऽपि भ्रमण्डले नास्त्येतादृशोऽन्यः पर्वतः । अतोऽयं
'नगाधिराजः' इति स्थाने व्यपदिश्यते ॥
 
हिमालयोऽयं क्रमश उन्नतोन्नताभिस्तिसृभिः श्रेणीभिः
चकास्ति । तत्र प्रथमा श्रेणि: त्रिसहस्र पदोन्नता महाद्रुमैरा -
कीर्णा अरण्यानी भवति । अथाप्यस्या ऊर्ध्वसानुषु जनाः
प्रतिवसन्ति । 'विविधानि धान्यानि चात्र प्ररोहन्ति ।
द्वितीया श्रेणिः अष्टादशसहस्रपदोन्नता वेणुतुल्यैः दीर्घेस्टर्णः
हिंस्त्रैमृगैश्वाभिव्याप्ता । नात्र जना निवसन्ति ॥