This page has not been fully proofread.

संस्कृत द्वितीयादशें
 
अथ कदाचिद्दीर्घकर्णनामा माजीर: पक्षिशावकान् भक्ष-
यितुं तत्रागतः । तमायान्तं दृष्ट्वा पक्षिशावकैर्भयार्तेः कोलाहल:
कृतः । तच्छ्रुत्वा जरद्द्भवेनोक्तम् – कोऽयमायाति ? दीर्घकणों
गृधमवलोक्य स्वयं समयमाह - ' हा हतोऽस्मि ! अधुनाऽस्य
सन्निधाने पलायितुमक्षमः । तद्यथा भवितव्यं तथा भवतु ।
तावद्विश्वासमुत्पाद्यास्य समीपमुपगच्छामि ' - ॥
 
78
 
-
 
एवमालोच्योपसृत्याब्रवीत् – आर्य !
 
त्वामभिवन्दे ।
 
गृधोऽवदत् – कस्त्वम् ? सोऽवदत् - मार्जारोऽहम् । गृध्रो
 
मार्जारोऽवदत् -
 
-
 
ब्रूते — दूरमपसर, नो चेद्धतो भवेस्त्वम् ।
श्रूयतां तावदस्मद्वचनम् । ततो यद्यहं वध्यस्तदा हन्तव्यः ।
गृध्रो ब्रूते — ब्रूहि किमर्थमागतोऽसि ? सोऽवदत् — अहमत्र
गङ्गातीरे नित्यस्नायी ब्रह्मचारी चान्द्रायणवतमाचरंस्तिष्ठामि ।
यूयं धर्मज्ञानरता इति विश्वासभूमयः पक्षिणः सर्व सर्वदा ममाग्रे
प्रस्तुवन्ति । अतो भवद्भयो विद्यावयोवृद्धेभ्यो धर्मं श्रोतुमि
हागतः । भवन्तश्चैतादृशा धर्मज्ञाः यन्मामतिथिं हन्तुमुद्यताः ।
मयाऽपि धर्मशास्त्राण्यधीतानि । गृहस्थधर्मश्चैषः– यदि वा धनं
नास्ति तदा प्रीतिवचसाऽप्यतिथिः पूज्य एव ।
 
गृध्रोऽवदत् — मार्जारो हि मांसरुचिः ! पक्षिशाबका-
यात्र निवसन्ति । तेनाहमेव त्रवीमि । तच्छ्रुत्वा मार्जारो भूमि
स्पृष्ट्वा कर्णौ स्पृशति । ब्रूते च – मया धर्मशास्त्राणि श्रुत्वा
चीतरागेणेदं दुष्करं व्रतं चान्द्रायणमध्यवसितम् । परस्परं
 
-