This page has not been fully proofread.

चतुर्विंशः पाठः- गृध्रो मार्जार
 
5
 
C.V.has
 
77
 
२४. गृध्रो मार्जारश्च
 
अज्ञातकुलशीलस्य वासो देयो न कस्यचित् ।
मार्जारस्य हि दोषेण हतो गृध्रो जरद्भवः ॥
 
-
 
तद्यथा – अस्ति भागीरथीतीरे गृध्रकूटनाम्नि पर्वते
महान् पर्कटीवृक्षः । तस्य कोटरे जराजीणों गलितनखनयनो
'जरद्भवनामा गृत्रः प्रतिवसति । अथ कृपया तज्जीवनाथ तद्वृक्ष-
वासिनः पक्षिणुः स्वाहारात् किञ्चित्किञ्चिद्धृत्य तस्मै ददति ।
तेनासौ जीवति । शावकानां च रक्षणं करोति ॥