This page has not been fully proofread.

संस्कृतद्वितीयादशें
 
धारयामि । यदि तत्र सन्देह उत्पद्यते तर्हि महाय्यादिनः
उपाध्यायं वा पृष्टा तं विषयमवगच्छामि । तेनाह-
मुपाध्यायस्य प्रश्नानामुत्तरणि दातुं शक्रोनि । अथर्व
कुर्युस्तर्हि सर्वेऽपि च्छात्राः शक्ता भवेयुः । उद्यम एव
विद्यार्थिनां परमो बन्धुः ॥
 
भीमस्तन्निशम्य तदाप्रभृति तथैवाकरोत् । कतिपयैरेव
दिवसः सोऽपि राम इव बुद्धिमान् बालको वभूव । वास्तु
न केवलं दुष्टबुद्धिः, किन्त्वलसश्वासीत् । नामौ कदाऽप्यपाध्या-
यस्य वचनानि श्रद्धत्ते, न च गृहे जातु पुस्तकमप्युद्धाटयति ।
स च परेपां प्रतारणेऽत्यन्तं निपुणः ॥
 
74
 
एकस्मिन दिवसे ते त्रयोऽपि वयस्याः कापि रथ्यायाः
परिसरे क्रीडन्तो बभ्रुवुः । तदा श्यामो राममतिसन्धातु-
मिच्छन् त्रवीति -
 
व्यामः – सुखे राम! त्वं कर्मशूर इत्युपाध्यायो वदति । अस्तु
तावत् । अपि त्वं मया चक्षुपी निमील्य क्रियमाणं
किमपि कर्म चक्षुपी उन्मील्य करिष्यसि ? कि बीपि
रामः – (साभोदम्) सखे ! कः सन्देहः ? करिष्यामि ॥
श्यामः – सत्यम् ?
 
रामः – सत्यमेव ॥
 
-
 
श्यामः – सखे भीम ! त्वं साक्षी ॥
 
अहमस्मि साक्षी ॥
 
●●