This page has not been fully proofread.

त्रयोविंशः पाठः- सहपाठिनां संभाषणम्
 
73
 
भीमः– सखे ! न युक्तमुक्तं त्वया । रामः सम्यक् पाठान् पठति ।
उपाध्यायस्य प्रश्नानां युक्ततराण्युत्तराणि च वदति ।
सुलभ उपाध्यायानामुद्यमशीलेषु च्छात्रेषु पक्षपातः ॥
श्यामः- किमावां न च्छात्रौ ?
 
भीमः – सखे ! आवामपि च्छात्रावेव । किन्तु न पाठाच
पठावः । नाप्युपाध्यायस्य प्रश्नानामुत्तराणि दद्वः ॥
श्यामः – उपाध्याय आवां न सम्यक पाठयति ॥
भीमः – सखे ! तद्व्यसङ्गतम् । एकदैवोपाध्यायो राममावां च
पाठपति, न तु रामं पृथक्तया । तस्मात् त्वदुक्तमयुक्तमेव ।
मन्ये, पठने समादरणीयः साधीयान् कोऽध्युपायः
स्यात्, येन रामः सम्यक् पठति ॥
 
-
 
श्यामः - भद्र ! मन्ये, स कामपि यक्षिणीमाराधयति, यस्याः
प्रसादेन स सम्यगधीते ॥
 
भीमः – गच्छावस्तस्यैवान्तिकम् । तमेव पृच्छावः ॥
(अथ भीमः श्यामश्व, रामस्य गृहं गच्छतः)
भीमः – सखे राम ! त्वया प्रत्यहं पाठाः सम्यक पठयन्ते ।
उपाध्यायस्य प्रश्नानां सम्यगुत्तराणि च दीयन्ते । तत्
कथम् ? अप्यस्ति कश्चिदुपाय: पठने समादरणीयः १
रामः सौम्य ! नात्र विशेषतः कश्चिदुपायोऽस्ति । अहं तावत्
सर्वदोपाध्यास्य वचनं श्रद्धया शृणोमि । श्रुतं च गृहं
गत्वा रात्रौ चिन्तयामि । चिन्तितं च प्रातरुत्थायाव-