This page has not been fully proofread.

द्वाविंशः पाठः – त्रिशकुमहाराजः
 
नन्दन् । तदा रोपाविष्टो राजा परुषवचनैस्तान् भृशमनिन्दत्
तदाकर्ण्य ते क्रुद्धास्तं ' चण्डालो भव' इत्यशपन् ॥
 
69
 
ततअण्डालतां गतोऽपि त्रिशकुः कथञ्चिदात्मनो मनो-
रथं साधयितुमिच्छन् वसिष्ठस्पर्धिनं महातपस्विनं विश्वामित्रं
शरणमगच्छत् । विश्वामित्रस्तं वृत्तान्तमाकर्ण्य चण्डालस्यापि
तस्य यज्ञं कर्तुं मतिं व्यधात् । अवदच्च – 'राजन् ! मा भैषीः।
अहं त्वां याजयामि । स्वर्ग तव हस्तगतं जानीहि' – इति ॥
 
ततः स यज्ञं निश्चित्य ब्राह्मणानामन्त्रयितुं सर्वतः
शिष्यान् प्राहिणोत् । अकरोच्च यज्ञाय महान्तं सम्भारम् । क्लृप्ते च