This page has not been fully proofread.

एकविंशः पाठः – दैवं पुरुषकारश्च
नात्युच्चशिखरो मेरुर्नातिनीचं रसातलम् ।
व्यवसायद्वितीयानां नाप्यपारो महोदधिः ॥
उद्योगिन पुरुषसिंहमुपैति लक्ष्मी
देवेन देयमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या
 
यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥
 
67
 
४) कृत्प्रत्ययान्ताः-

 
१) प्रश्नाः- -१. दैवस्य प्रवलतां पुरुषकारस्य कर्तव्यतां च
सोदाहरणं समर्थयत ? २. वायसाः कस्य मूर्ध्नि तिष्ठेयुः ?
३. दोषः कदा न भवेत् ?
 
२) प्रयोगं विपरिणमयत-
१. मृगाः सुप्तस्य सिंहस्य मुखं न हि प्रविशन्ति ।
२) लक्ष्मीरुद्योगिनं पुरुषसिंहमुपैति ।
३) कापुरुषः दैवेन देयमिति वदन्ति ॥
३) अतिशायनार्थकैः पदैः वाक्यानि पूरयत-
१) दैव पुरुषकारात् (बलवत् ) ।
२) मतिः वलात् (गुरु) ।
 
३) दशरथस्य पत्नीनां कौसल्या (वृद्धा ) ।
 
आप् to obtain –(आप्नोति) = आप्तः, आप्तवान्,
 
आप्नुवन, आप्यमानः, आप्त्वा, (अवाप्य), आप्तुम्,
आप्तव्यम्, आपनीयम्, आप्यम् ।
 
स्वप् to sleep—(स्वपिति) = सुप्तः, सुप्तवान्, स्त्रपन्.
सुप्त्वा (सुषुप्य) स्वपितुम्, स्वप्तव्यम्, स्वपनीयम्,
स्वाप्यम् ॥