This page has not been fully proofread.

संस्कृतद्वितीयादर्श
 
प्रोताः सन्ति । प्रायेण चक्राणि द्वादशाराणि क्रियन्ते
 
चक्रद्वयस्य नाभिरन्ध्रयोस्तिर्यगक्षदण्डः सङ्घटितः । तस्मिन्नश-
दण्डे शकटस्य भारस्तिष्ठति ॥
 
वृष्टेरातपस्य च वारणाय शकटं कटमयेन पटलेनाच्छाद्यते ।
तेन शकटं जनानां सञ्चाराय योग्यं भवति । बहवो जनाः
शकटैर्गतागत कुर्वन्ति । भारवन्ति भाण्डान्यपि शकटमागेप्य
देशादेशं नयन्ति । अद्यत्वे तु भूयस्तया वाष्पयानैरेव गतागतं
कुर्वन्ति जनाः ॥
 
चित्रमवलोक्यताम् ! तत्र शकटस्य पुरोभागे स्थितो
बालः शाकटिकः । स रथ्यायां शकटं नयति । यदा स शक
शीघ्रं नेतुमिच्छति तदा कशया वृषौ ताडयति । तदा तो द्रुतं
गच्छतः । यदा शकटं स्थापयितुमिच्छति तदा स नासारज्ज्वा
वृषौ पश्चादाकर्षति । तदा तौ तिष्ठतः ॥
 
अयं शाकटिकः पूर्वमतीव दरिद्र आसीत् । तदा स
कस्यचिद्धनिनो गृहे कर्म कुर्वन् प्रत्यहं केवल माणकचतुष्कं
बेतनमलभत । अथापि स बुद्धिमान्; यतः स लब्धस्यार्ध
स्वजीबिकायै व्ययीकुर्वन्नपरमर्धं रक्षति स्म । तथा रक्षितं च
तद्नं वर्षद्वयेन रूप्यकशतम् अभवत् । पश्चादसौ बालस्तेन
धनेनेदं शकटमिमौ वृषभौ चाक्रीणात् । सम्प्रत्ययं प्रतिदिनं
द्वित्राणि रूप्यकाण्यर्जयन् सुखेन जीविकां निर्वर्तयति ॥