This page has not been fully proofread.

TELE
 
shetation
 
विंशः पाठः – शकटम्
 
63
 
२०. शकटम्
 
अत्रैकं शकटं त्रजति । इदं वृषभशकटम् । यदश्वैरुह्यते
तदश्वशकटम् । यद्भाष्पशक्त्या गच्छति तद्वाष्पशकटम् । तस्यैव
धूमशकटमिति नामान्तरम् । केषुचिदेशेषु श्वानोऽपि शकटानि
वहन्ति । क्वचिन्महिषा अपि शकटेषु बध्यन्ते ॥
 
शकटेऽस्मिन् द्वौ वृषभौ नियुक्तौ । केषुचिच्छकटेष्वेकोऽपि
वृषभो नियुज्यते । पश्य, शकटस्य द्वे चक्रे स्तः । चक्रं परितः
स्थितो भागः नेमिरित्युच्यते । चक्रयोर्मध्ये मण्डलाकारेण
दृश्यमानो भागश्चक्रनाभिः । नेमेश्चक्रनाभेश्चान्तराले द्वादशार: