This page has not been fully proofread.

संस्कृतद्वितीयादर्श
 
नानाविधा महान्तो मत्स्याः सागरे विद्यन्ते । धीवराः
प्लवैः सागरं प्रविश्य जालैस्तान् वध्नन्ति । मूल्यवन्ति रत्नानि
प्रवालानि मुक्ताफलानि च समुद्रेषु जायन्ते । अत एव तेषां
रत्नाकरव्यपदेशः ॥
 
60
 
वयं नदीनकाभिस्तरामः । पारावारास्तु कल्लोलेराकुलाः
नौभिस्तरीतुं न शक्याः । अतस्तत्र प्रवहणैः सञ्चरन्ते जनाः ।
प्रवहणेषु कानिचिद्वायुना नीयमानानि कानिचिद्राष्पशक्त्या
चाल्यमानानि च । यथैव स्थले बाप्पशकटानि तथैव जले
बाप्पप्रवहणान्युपयुज्यन्ते ॥
 
'