This page has not been fully proofread.

अष्टादशः पाठः – आहारः
 
57
 
राजसो नामातिकटुरत्यम्लोऽत्युष्णस्तीक्ष्णो रूक्षो विदाही
च । स च शौर्यमहङ्कारं दादर्थं कामं क्रोधं शोकं चोत्पादयति ॥
तामसस्तु यातयामो गतरसः पूतिः पर्युषितो जुगुप्सि-
तश्च । अयमेव राक्षसाहारो नाम । अयमाहारो मनुष्याणां मदं
मात्सर्यमभिमान महङ्कारं दम्भं च तनोति ॥
 
यथा हि दुष्टो वायुः अशुद्धं जलं च नानाविधानामाम-
यानां प्रभवो भवति तथैव कुत्सित आहारोऽपि । तस्मात्
सात्त्विक एवाहार: प्रशस्ततमः । सैनिकास्तु राजसमप्याहारं
गृह्णन्तो न दुष्यन्ति । तामस आहारस्तु सर्वथैव त्याज्यः ॥
 
भारतीया वयं शाल्यन्नमश्नीमः । यौरोपास्तु गोधूमं
बाहुल्येनोपयुञ्जते। शाल्यन्नापेक्षया मुद्गो माष आढको गोधूमश्च
बलकारी भवति । ऋषयः कन्दैर्मृलैः फलैः पर्णैरद्भिश्च जीवन्ति ॥
 
अत्यधिकमत्यल्पं च न भोक्तव्यम् । अत्यल्पभोजन मग्निं
ज्वलयितुं न पर्याप्नोति । अत्यधिकं भोजनमजीयत अग्निं मन्दी
करोति । तस्मान्मितमेव भोजनं हितकारि भवति । यावता
भुक्तेन भुन्निवृत्तिर्जायेत तावदेव भोक्तव्यम् । तदेव मितभोजनं
नाम । केचित्त्वपेक्षितादधिकं भुञ्जते । बुद्धिमन्तस्तु न भोज-
नार्थ जीवन्ति, किन्तु जीवनार्थं भुञ्जते ॥
 
१) प्रश्नाः- - १. त्रिविधा आहाराः फे? २. तेषां गुणाः कीदृशाः?
३. कुतः सात्विक एवाहारः प्रशस्ततमः ? ४. शाल्यन्नापेक्षया
के वलकारिणः १५ कस्मादत्यधिकमत्यल्पं च न भोक्तव्यम् ?
६. मितभोजनं नाम किम् ?