This page has not been fully proofread.

सप्तदशः पाठः नगरम्
 
53
 
नगरम्
 
किं नाम नगरम् ? यत्र सहस्रशो जनानामधिवासः,
नैकविधानां गृहाणां श्रेणयः, विविधा राजकीयाः कार्यालयाः
विविधविद्याग्रहणोपयुक्ता विद्यालयाः, नानाविधैः ऋथ्यैर्वस्तुभि -
रलंकृताः पण्यवीथिकाच विद्यन्ते तन्नगरम् । नैकविधा देवालयाः,
पुष्पोद्यानानि, प्रमदवनानि, कूपाः, तटाकानि, अन्यान्यपि
जनानामुपयुक्तानि तानि वस्तूनि नगरेषु सुलभानि ।
यद्यपि ग्रामवासः सुखतरस्तथापि पत्तनेषु विद्याया व्यवसायस्य
 
8