This page has not been fully proofread.

48
 
संस्कृत द्वितीयादर्श
 
दधीचमृषिं गत्वा तस्यास्थीनि गृहीत । तैश्च वज्रं कृत्वा तेन
वृत्रं हत' इति ॥
 
तद्वचन मनुसृत्य देवाः सद्य एव दधीचस्याश्रमं गत्वा
नत्वा च तं तदीयान्यस्थीन्ययाचन्त । तेषामभ्यर्थनया स महर्षिः
प्रहर्षमगात् । आत्मनः शरीरलाभं बह्वमन्यत । स्वीयं तपः
फलितमाकलयत् । सद्य एव स महात्मा त्रैलोक्यस्य हिता-

यात्मनः प्राणानुत्ससर्ज । परासोस्तस्यास्थीन्यादाय देवा-
स्त्वष्ट्रा वज्रं कारयामासुः ॥
 
तदनु शक्रपुरोगमा: सुमनसो रोदसी आवृत्य तिष्ठन्तं
कालेयैरभिरक्षितुं वृत्रमभ्ययान् । तैः सह देवानां तुमुलमायोधनं
प्रवर्तत । रजोभिः सर्वाः ककुभो व्याप्यन्त । सर्वे लोका
अकम्पन्त । एवं भृते व्यतिकरे विष्णुतेजसाssविष्टो जिष्णुरे-
काकी रणधुरां वहन् वृत्रस्य शिरसि वज्रमपातयत् । वृत्रो
भग्नशिराः क्षितावपतत् । देवाः समाश्वसन् । इन्द्रो 'इत्रहा'
इति प्रथां प्राप्नोत् ॥
 
१) प्रश्ना:- १. शकादयो देवाः किन्निमित्तं ब्रह्माणमुपायन्, किञ्च
तमन्व युञ्जत ? २. ब्रह्मा किमब्रवीत् ? ३. देवाः किमकुर्वन् ?
४. दधीचः किमकरोत् ? ५. देवाः किं चक्रः ?
६. ते कमभ्यायन् ? ७. ततः किमासीत् ?
२) प्रयोगं विपरिणमयत-
१. भगवन् किमत्र करवाम है ।
२. दधीचमृषि गत्वा तस्यास्थीनि गृहीत ।
तैश्च वज्रं कृत्वा तेन वृत्र इत ॥
 
३.