This page has not been fully proofread.

पञ्चदशः पाठः- महात्मा दघीचः
 
47
 
१५. महात्मा दधीचः
 
कालेया नाम दानवाः पुरा वृत्रं समाश्रित्य त्रिविष्टपं
पीडयामासुः । तान् हन्तुमशक्क्रु अन्तः शक्रादयो देवाः परिम्लान-
मुखश्रियो ब्रह्माणमुपेत्य हृदयङ्गमैः स्तवैस्तं तुष्टुवुः । अथ
पुरस्तादाविर्भूताय तस्मै दानवभयं निवेद्य तमन्वयुञ्जत- 'भगवन्
किमत्र करवामहै' इति । ब्रह्माऽब्रवीत् - 'वत्साः, मा बिभीत ।