This page has not been fully proofread.

चतुर्दशः पाठः-उष्ट्रः
 
45
 
भारान् वोढुम् । उष्ट्रस्तु महान्ति भाण्डानि वहन् द्रुततरं
गच्छति । चित्रेऽस्मिन्नेकः पुरुषः उष्ट्र्स्योपरिष्टादुपविष्टः ।
कदाचित् पञ्चषा अपि जना उष्ट्रमारूढाः सञ्चरन्ति ॥
 
सन्ति खल्वारभादिदेशेषु समुद्रवदतिविशाला अदृश्यमान
सीमानो मरुभूमयः; यत्र हि गृहाणां नदीनां कृपानां वृक्षाणां च
कथाsपि न विद्यते, तत्रोष्ट्राः केवलं सञ्चारार्थमुपयुज्यन्ते । उष्ट्राः
खलु बहून् दिवसान् निराहाराः सञ्चरितुं शक्ताः । प्रस्थानकाले
ते पञ्चषेभ्योः दिवसेभ्यः पर्याप्तं जलं पिबन्ति । अतः समुद्रेषु
महानौका इव मरुभूभागेषु सञ्चरतां जनानामुष्ट्रा एवाश्रयाः । अत
एवारमीयाः सार्थवाहा उष्ट्रान् स्तुत्या गीत्या चोपगायन्ति ॥
 
उष्ट्रा: प्राधान्येन निम्बपत्राण्यश्नन्ति । कण्टकवृक्षेषु तेषां
महती प्रीतिः । उष्ट्राणां शावका: 'करभा' इत्यभिधीयन्ते ।
कलभास्तु करिशावकाः ॥
 
त्यन्तोपकारी जन्तुः ?
 
२) प्रश्नाः – कथमुष्ट्रो विरूपाकृतिः ? २. कथं स मनुष्याणाम-
३. कस्मादारभीया उष्ट्रान स्तुत्या
गीत्या चोरगायन्ति ? ४. उष्ट्राः किं भक्षयन्ति ? ५. करमाः
कलभाध के ?
 
२) प्रयोगं विपरिणमयत-
१) गजा गुरुतरान् भारान् वहन्ति ।
 
२) उष्ट्रा बहून् दिवसान् निराहारः सञ्चरितुं शक्नुवन्ति ।
३) ते पञ्चषेभ्यो दिवसेभ्यः पर्याप्तं जलमे दैव पिवन्ति ॥