This page has not been fully proofread.

44
 
संस्कृतद्वितीयादर्श
 
Huye
 
-
 
उष्ट्रो नाम कश्चिद्वक्रकायो जन्तुः । स गज इवात्यन्तं
प्रांशुः । तस्यावयवास्तु तनीयांसः । तस्य चरणाः कृशा दीर्घाश्च ।
कन्धरा त्वायता कुटिला च । पुच्छो हुस्त्रः । उष्ट्राणां पृष्ठभाग
एको गडुर्विद्यते । केषाञ्चित्तु द्वौ गइ स्तः । उष्ट्राः सर्वदोर्ध्वमेव
पश्यन्ति ॥
 
इत्यमुष्टो यद्यपि विरूपाकृतिस्तथापि स मनुष्याणामत्य-
न्तोपकारी जन्तुः । गजो हि गुरुतरान् भारान् बोढुं क्षमते, न तु
शीघ्रं गन्तुम् । अश्वस्तावद्द्रुतं गन्तुं शक्नोति, न त्वति महतो