This page has not been fully proofread.

त्रयोदशः पाठः- हंसः
 
41
 
ततस्तावुभावपि युगपत् प्रातिष्ठेताम् । हंसो यावत् पञ्च-
पाणि पदानि गच्छति तावत् काको द्रुतं उयमानः सुदूरं जगाम
परं काको द्रुतगत्या नितान्तं श्रान्तः सरसः मध्ये पतित्वा पञ्चत्वं
गतः । हंसस्तु मन्दं सञ्चरन् पदे पदे विश्राम्यन केनचित
समवेन सरसः पारं प्रापत् ॥
 
हंसानां गरुतः वेताः, इतराण्यङ्गानि तु पीतानि ।
केषाञ्चन हंसानां चञ्चवश्चरणाच लोहिताः । ते राजहंसा इति
व्यपदिश्यन्ते । मल्लिकाक्षा अपि हंसभेदा एव । तेषां चञ्चव-
चरणाश्च धूम्रवर्णा: । हंसानां स्त्रियो 'हंस्यः' इति 'वरटा: '
इति चाभिधीयते ॥
 
यथा विष्णोर्गरुडस्तथा ब्रह्मणो वाहनं हंस इति पुराणेपु
श्रयते । कवयो हंसान् नीरक्षीरयोः पृथकरणे शक्तानाहुः ।
उक्तं च -
 
हंसः शुक्लो वकः शुक्लः को भेदो बकहंसयोः ।
नीरक्षीरविभागे तु हंसो हंसो बको बकः ॥ इति ॥
ईडशा हंसाः सम्प्रति कुत्रापि नोपलभ्यन्ते जगति ।
कविभिस्तावदेतादृशानां हंसानां रात्रौ सञ्चारः मानसाख्ये
सरगम निवासच वयेते ॥
 
हंसा बिसाहारा इत्याचक्षते कवयः । अथापि ते बाहुल्येन
मत्स्यान् भक्षयन्ति । हंसाः पद्मसरसामलङ्कारभृताः प्रेक्षकाणा-
मक्षीण्यावर्जयन्ति ॥