This page has not been fully proofread.

40
 
संस्कृतद्वितीया दर्श
 
१३.
 
यद्यपि पक्षिणः प्रायेण नभसि डयन्ते तरुशाखासु च
निवसन्ति, तथापि हंसादयः केचित पक्षिणः सलिलवासिनः
पृथिवीचारिणश्च दृश्यन्ते । ते बाहुल्येन पद्मिनीषु वसन्ति ।
मन्दं भूमौ सञ्चरन्ति च । तेषां पक्षौ कोमलौ । अतस्ते
डयमानाः सुदूरं गन्तुं न पारयन्ति ॥
 
तेषां गतिमधिकृत्य काचित् कथा श्रूयते, यथा-कदा-
चिदेकः काको हंसस्य मन्दगामितामुपहसन् सव्याजमवोचत्-
'मुखे ! त्वं डयनेऽत्यन्तं निपुण इति मया बहुशः श्रुतम् ।
अतस्तव गतिं परीक्षितुमिच्छामि । युगपदमस्माद्देशान् प्रस्थि-
तयोरावयोः कतरः प्रथमं सरसः पारं ग्रामोतीति परीक्षावहे । तन्
किमद्य मया सह ग्लहं कर्तुं सजोऽसि ? इति । हंसः 'तथा.
कुर्वः' इति तद्वचनमङ्गीचकार ॥