This page has not been fully proofread.

द्वादशः पाठः कदली
 
37
 
रम्भाफलानि नानाजातीयानि सन्ति, तेषां गुणो वर्ण
आकारो रुचिश्व तत्तजातिभेदाद्भिद्यन्ते । सामान्यतः कदली-
फलानि त्वचि पीतवर्णानि । कानिचिद्रक्तवर्णानि । अन्यानि
कानिचिदन्तः पक्कान्यपि त्वचि हरितवर्णानि अपक्कानीव
लक्ष्यन्ते । कानिचित् फलानि भक्ष्यमाणानि ज्वरमुत्पादयन्ति ।
 
कदल्यः प्राधान्येन भारतवर्ष सर्वत्र प्ररोहन्ति । आफ्रि-
कामेरिकाखण्डयोरपि ता बहुत्रोपलभ्यन्ते । कदल्याः सर्वोऽपि
भाग उपयोगाय कल्पते । तस्याः पत्राणि भोजनामत्रत्वेनोप-
युज्यन्ते । कदल्याः काण्डे स्थितानां त्वचा पाटनायामन्ने
काण्डमार उपलभ्यते । तस्मात् काण्डसाराद मेरिकाखण्डस्था-
जना: सक्तून् सम्पाद्य तैरपूपान् राधयन्ति । एवं कदलीफले-
भ्योऽपि शोषितेभ्योऽपूपोपयुक्तान् सक्तून् सम्पादयन्ति जनाः ॥
 
कदलीद्रुमाणां मूलेऽङ्कराः प्ररोहन्ति । ते स्थलान्तरे
संरोप्य माणाः पुष्टाङ्गाः फलानि वितरन्ति । केपाञ्चित् कदली-
फलानामन्तर्भागे बीजानि विद्यन्ते । तान्यप्युप्यमानान्युद्भि-
द्यन्ते । कदल्यो दोहदं जलं च सर्वदाऽपेक्षन्ते ॥
 
१) प्रश्ना:- १. का नाम ओषधयः ? २. कदल्यः कथमोषधि-
वर्गेऽन्तर्भवन्ति ? ३. नानाजातीयानि रम्भाफलानि कीह-
शानि ? ४. कदल्यः प्राधान्येन केषु देशेषूत्पद्यन्ते ?
 
कदलीनां प्रयोजनानि कानि ? ६. ताः कथं प्ररोप्यन्ते?