This page has not been fully proofread.

संस्कृतद्वितीयादर्श
 
१२. कदली
 
जगति
 
बिद्यामानास्तरुलतादिरूपा उद्भिदः केचिन
फलपाकान्ताः केचितथाभूताथ । तेषु फलपाकान्ता उद्भिदः
'ओषधयः' इत्युच्यन्ते ।
 
कदलीनां फलपाक एवान्तो
भवति । अतस्ता ओषधयो भवन्ति । त्रीहियवादयोऽप्योषधि -
वर्गेऽन्तर्भवन्ति ॥
 
36
 
कदल्यः फलदेवृद्भित्सु प्रशस्ताः क्षिप्रफलाच । वर्षेणकेन
ताः फलन्ति । कदलीप्रसव एकस्मिन् शतद्वयाधिकानि फलानि
न्स्युः । सहस्रफला अपि केचिद्रम्भातरवः सन्ति ॥