This page has not been fully proofread.

संस्कृतद्वितीयादर्श
 
१०. लोभी मत्सरी च
 
लोभो मत्सरव पुरुषस्य श्रेयसः पन्थानमवरुन्धाते ।
मत्सरी पुरुषः परस्य हानिमेवात्मनो लाभं मन्यते । लोभी तु
लोभेनान्धीकृतो गर्तपातं न पश्यति । श्रूयते चात्र काचित्
कथा, यथा – आस्तामेकस्मिन् ग्रामे सुन्दसुन्दरनामानौ द्वो
पुरुषौ । तयोः सुन्दोऽतीव लोभी, सुन्दरोऽत्यन्तं मत्सरी
चासीत् । तावेकदा चराचरगुरुं भगवन्तं परमेश्वरं प्रत्यक्षीकर्तुं
क्वचिच्छिवमन्दिरे तपस्तेपाते ।
 
,
 
30
 
तयोस्तपसा प्रीतो
 
भवानीपतिः सद्य एवाविर्भूय
 
जगाद – 'भोः साहसिकौ ! युवयोरनन्यसाधारण्या भक्त्या
 
-
 
तुष्टोऽस्मि । अलं भूयसा तपसा । वरं वृणीतम् । यद्वरिष्येथे
तद्दास्यामि । परन्तु यः प्रथमं यद्वरिष्यते स तल्लभेत ।
अन्यस्तु तदेव द्विगुणं लप्स्यते' – इति ॥
 
-
 
भगवतो महादेवस्य तद्वचनं श्रुत्वा लोभी सुन्द:-
'नाहमादौ वरं वृणे । अयं मम सखा भूरि द्रविणं याचिष्यते !
तदेव द्विगुणं मया लभ्येत' - इति विचिन्त्य स्वयं तूष्णीमान्त ॥
परस्योत्कर्षमसहमानो मत्सरी सुन्दरस्तु लोभिनं
वञ्चयितुकामः साष्टाङ्गं प्रणिपत्य शिवमभ्यर्थयामास - 'भगवन् !
भक्तवत्सल ! यदि मयि प्रसन्नोऽसि यदि च ते मय्यनुकम्पा
तर्हि ममैकं नयनमन्धीभवतु' - इति । 'तथास्तु' इति शूलिनोक्तं