This page has not been fully proofread.

28
 
संस्कृतद्वितीयादर्श
 
ततः किश्चिदतीत्योपाध्यायो
 
धौम्यः शिष्यावपृच्छत्-
-इति । तौ तं प्रत्यूचतु:-
6
 
क्क आरुणिः पाञ्चाल्यो गतः ११ – इति । तौ तं
'भगवन् ! त्वयैव प्रेषितो गच्छ केदारखण्डं बघान ' - इति ।
स एवमुक्तः प्रत्युवाच – 'तर्हि तत्र सर्वे गच्छामो यत्र स गतः
इति । तत्र गंत्वोपाध्यायस्तस्याहानाय शब्द चकार – 'भो
आरुणे ! पाश्चात्य ! क्कासि ? वत्स ! एहि ' — इति ॥
 
स तदाकर्ण्यारुणिरुपाध्यायवाक्यं तस्मात् केदारखण्डात्
सहसोत्थाय तमुपाध्यायमुपतस्थे, प्रोवाच चैनम् – 'अय-
मस्म्यत्र केदारखण्डे निस्सरमाणमुदकमचारणीयं संरोधुं
संविष्टः । भगवच्छदं श्रुत्वैव सहसा विदार्य केदारखण्डम्,
भवन्तमुपस्थितः । तदभिवादये भवन्तम् । आज्ञापयतु भवान्
कमर्थ करवाणि — इति ॥
 
स एवमुक्त उपाध्यायः प्रत्युवाच – 'यस्मात् केदारखण्डं
विदार्योत्थितस्तस्मात 'उद्दालक एवं नाम्ना त्वं भविष्यसि;
यस्माच्च महूचननुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसि । सर्वच
वेदास्ते प्रतिभास्यन्ति, सर्वाणि च शास्त्राणि ' – इति ।
अथोपाध्यायेनानुगृहीत आरुणिर्गुरुकुलात् गृहं न्यवर्तत ॥
 
प्रेषयामास ?
 
१) प्रश्नाः १. आरुणिः कस्य शिष्यः ? २. तमुपाध्यायः कुत्र
३. उपाध्यायेनादिष्टः स किं चकार ?
४. किञ्चिदतीत्योपाध्यायेनाहूतः
५. उपाध्यायः किं प्रत्युवाच ?
 
किं
 
प्रोवाच ?