This page has not been fully proofread.

नवमः पाठः- धौम्य आरुणिश्च
 
27
 
९. धौम्य आरुणिश्च
 
आसीत् कश्चिदृषिधौम्यो नाम । तस्य शिष्यास्त्रयो
चभूवुः-आरुणिः, उपमन्युः, वेदश्च, इति । स एकदा शिष्यमारुणि
पाञ्चाल्यं प्रेषयामास –' गच्छ, केदारखण्डं बधान ' - इति ॥
 
-
 
स उपाध्यायेन समादिष्ट आरुणिस्तत्र गत्वा तत् केदार-
खण्डं बन्धुं नाशकत् । स क्लिश्यमानोऽपश्यदुपायम्-
'भवतु, एवं करिष्यामि' – इति । स तत्र केदारखण्डे
संविवेश । शयाने च तथा तस्मिन्नुदकं तस्थौ ॥