This page has not been fully proofread.

25
 
अष्टमः पाठः --कीडोत्पाटी वानरः
 
द्वयोः खण्डयोर्मध्ये कीलकं निधाय मध्याहे भोजनाय गृह
गताः । तदा तत्र कश्चिद्धलवान् वानरसन्दोहः क्रीडभागतः ॥
 
वानराः प्रकृत्या चपलाः । अव्यापारेषु व्यापारो वान-
राणां जातौ प्रसिद्धः । तेषामेको वानरः कालप्रेरित इव तं
कीलकं हस्ताभ्यां धृत्वा पादौ च दारुखण्डयोरुपरि निधायो-
पविष्टः । तदा तस्य पुच्छो दारुखण्डयोरभ्यन्तरं प्रविशत् ।
स वानरस्तं कीलकमचलयन् । स तु दृढतरोऽभूत् । अथापि
स चापल्यादविरतो भूयोऽपि चलयन् महता यत्लेन तं
कीलकमकृष्टवान् । आकृष्टे च कीलके चूर्णितपुच्छः स
इष्टदेवतां स्मरन् पञ्चत्यं गतः ॥
 
प्रश्नाः – १. कः कुत्र देवालयं निर्मातुमुपाक्रमत ? २. कुत्र
वानरसन्दोहः क्रीडन्नागतः १ ३. एको वानरः किमकरोत् ?
४. ततः किं वृत्तम् ? ५. अनया कथया किमस्माभिर्गृह्यते ?
२) अधोरेखाकितानां स्थाने तत्तद्धातूनां 'लिट् रूपाणि
निवेशयत-
"
 
१. तस्य चिराय सन्ततिः न आसीत् ।
२. तस्य पुच्छो दारुखण्डयोरभ्यन्तरं प्राविशत् ।
३) प्रयोगान्तरतया विपरिणमयत -
 
१. जलं जलसम्पर्क महाजलाय भवति ।
३. किं हीनकुसुमं सहकार मधुकराः सेवन्ते ?