This page has not been fully proofread.

संस्कृतद्वितीयादश
८. कीलोत्पाटी वानरः
अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति ।
स नूनं निधनं याति कीलोत्पाटीव वानरः ॥
तद्यथा – अस्ति ब्रह्मारण्यस्य समीपे विरिञ्चिपुरं नाम
नगरम् । तत्र शुभदत्तनामा धनवान् वैश्यः प्रतिवसति । तस्य
चिराय सन्ततिर्नासीत् । तेन स धर्मपरो भूत्वा दानधर्मादिक
माचरत् । व्रतान्यन्वतिष्ठत् । कूपतटाकादीन्यखानयत् ।
अन्ततश्च दैवज्ञानामादेशेन कञ्चिदेवालयं निर्मातमुपाक्रमत ॥
 
24
 
अथ सोऽरण्यपरिसरे कारुभिर्दारुकर्म कारयामास
एकस्मिन् दिवसे कारवः करपत्रेणैकं स्तम्भं किञ्चिदूरं विदार्य