This page has not been fully proofread.

सप्तमः पाठः - पक्षिणः
 
-
 
21
 
तदा पक्षौ विवृण्वन्ति, यदा च क्वचिदुपविशन्ति तदा संवृण्व-
न्ति । कुक्कुटादयः केचिदण्डजाः पक्षत्रन्तोऽपि सम्यग्डयितुं
न प्रभवन्ति । गरुडाः कदाचिदत्यूर्ध्न नभसि पतन्ति । हंसादयः
केचित पक्षिणो जले चरन्ति ॥
 
पक्षिणो वृक्षशाखासु नीडानि निर्माय तत्र निवसन्ति ।
नीडानि तृणकणैर्निर्मीयन्ते । आलेख्येऽस्मिनेका विहगी
शाखायामुपविष्टा । तस्याः सविघे कथित कुलायो दृश्यते ।
तस्मिन् कुलाये चत्वारः शावकाः सन्ति ।
साविहगी तेभ्यो
धान्यकणान् ददाति ॥
 
विहङ्गा अहन्याहाराय चरित्या सायं स्वनीडमा
गच्छन्ति । रात्रौ तत्र निद्राय प्रातस्तरां प्रबुध्यन्ते । अनुध्य
च वृक्षात् वृक्षमटन्तो मधुरं विरुवन्तश्च जनानामानन्दं
जनयन्ति । उदिते च भानौ भूय एवाहारार्थ भ्राम्यन्ति । पक्षिणां
इन्ताभावात् ते चञ्च्चा भक्ष्याणि खादन्ति । वाग्गुदानां तु
इन्ताः सन्ति, पक्षौ च स्तः । ते न अण्डजाः । अतः ते
मृगजातात्रन्तर्भवन्ति ॥
 
विहगा: फलानि धान्यानि कमीन कीटान् वा यथेष्ट-
माहरन्ति । पारावतः पिकः शुकश्चटकश्च प्राधान्येन धान्यानि
फलानि च खादन्ति । गृध्रस्तार्क्ष्यो बक इत्यादयो मांसमध्य-
अन्ति । काको मांसं धान्य फलं च भक्षयति । अग्नि-
कणमक्षिणः शिलाशकलभक्षिणच केचिद्विहगाः श्रूयन्ते ।