This page has not been fully proofread.

संस्कृतद्वितीयादर्श
 
अथ स इन्द्राणीं द्रष्टुमिच्छन् महताऽऽडम्बरेण तस्या
वासभवनं गच्छन् सप्तर्षीनानाय्य स्वशिविकावहनायादिदेश ।
सप्तर्षयस्तस्य शासन मनुल्लङ्घनीयं ज्ञात्वा शिविकां वहन्तः कथं
कथमपि चेलुः । राजा च तान् सर्वान् पढ़े पढ़े स्वलतः
परुषवचनैरनिन्दन् । विशेषतचेतरैः सह गन्तुमशक्तं हूस्वकाय-
मगस्त्यम् – 'कुम्भडिम्भ ! मर्प सर्प' इत्यधिचिक्षेप ॥
 
18
 
87. Pin
 
आत्मानमघिक्षिप्तं पश्यन् भृशं व्याकुलीभूतश्चुलुकी-
कृताम्भोराशि: कुम्भयोनिर्नहुषं 'सर्पो भव' इत्यशपत् ।
सप्तमात्र एव नहुषो महाकायः काकोदरो भूत्वा शिविकातः
क्षितौ पपात ॥
 
मानो हि महतां धनम् । अतः उन्नतं पदं प्राप्तो
मान्यान् नावमन्येत ॥