This page has not been fully proofread.

पञ्चमः पाठः- कमलम्
 
15
 
चित्रं पश्य, कानिचित् कुसुमानि मुकुलितानि, कानिं-
कुसुमस्याधस्ता दृश्यमानः
 
चित् विकसितानि च दृश्यन्ते ।
प्रकाण्डो मृणालम् । मृणालस्यान्तभांगे
 
छिद्राणि तन्तवश्च वर्तन्ते ॥
कमलसरांसि कमलिन्य इति कुमुदुसरांसि कुमुदिन्य
इति चोच्यन्ते । कमलिन्यः सूर्यस्य कुमुदिन्यचन्द्रस्य चोदये
विकसन्ति । तेन सूर्य कमलिनीनायकी, चन्द्र कुमुदिनी-
नायक इति च प्रसिध्यतः । हेमन्ते हिमेन सिक्ताः कमलिन्यः
स्मरणीयशोभाः सम्पद्यन्ते ॥
 
कलानां मध्यमागे किज्जलकाः सन्ति । तेषु सुगन्धयः
परागा विद्यन्ते । मधुकराः प्राधान्येन कमलेभ्यो मधु पिवन्ति ॥
यद्यपि मल्लिकादीनि कुसुमानि कमलापेक्षया सुगन्धि-
तराणि तथापि तेपामेतावत् सौन्दर्य नास्ति । अरविन्दान्येव
कुसुमेषु सुन्दरतमानि । अत एव पद्मं पद्मायाः सम निगद्यते ॥
१) प्रश्नाः १. कुतः कमलानि सरसिजानि पङ्कजानीत्यादिभिः
शब्दैः व्यवहियन्ते ? २. उत्पल कोकन पुण्डरीकं व किम् ?
३. कुवलयान्यधिकृत्य किं जानीथ ? ४. किं नाम मृणालम् ?
५. 'कमलिनीनायकः' 'कुमुदिनीनायकः' इति व्यपदेशे
किं कारणम् ? ६. कुतः पद्म पद्मायाः सद्म निगद्यते ?
२) तत्तद्धातूनां निर्दिष्टेः लकारैः वाक्यानि पूरयत-
१) सरसिजानि शैवलेनावृतान्यपि रम्याणि भा... (लट् ) ।
२) मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तन्.... (लहू)।
 
३) त्वं तस्मात् सरसः पञ्चषाणि कमलानि ग्रह... (लोट् ॥