This page has not been fully proofread.

-
 
द्वात्रिंशः पाठः - सुभाषितावळिः - द्वितीयं दशकम् ॥।
सुभाषितावळिः - द्वितीयं दशकम्
 
खलः करोति दुवृत्तं नूनं फलति साधुषु ।
दशाननोऽहरत् सीतां बन्धनं तु महोदधेः ॥
निन्दां यः कुरुतेऽन्येषां तेन स्वं दूषयत्यसौ ।
से भूतिं यस्त्यजेदुच्चैर्मूर्ति तस्यैव सा पतेत् ॥
अहो दुर्जनसंसर्गान्मानहानिः पदे पदे ।
पावको लोहसङ्गेन मुद्गरैरभिहन्यते ॥
महाजनस्य संसर्गः कस्य नोन्नतिकारकः ।
रभ्याम्बु जाह्ववीसङ्गात् त्रिदशैरभिवन्द्यते ॥
स्थिरा शैली गुणवता खलबुद्ध्या न बाध्यते ।
रत्नदीपस्य हि शिखा वात्ययाऽपि न शाम्यते ॥
उपकर्तुं यथा स्वल्पः समर्थो न तथा महान् ।
प्राय: कूपस्तृषां हन्ति सततं न तु वारिधिः ॥
विद्वानेव विजानाति विद्वज्जन परिश्रमम् ।
 
न हि वन्ध्या विजानाति गुर्वीं प्रसववेदनाम् ॥
यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ।
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥
यस्य नास्ति विवेकस्तु केवलं यो बहुश्रुतः ।
न स जानाति शास्त्रार्थान दर्जा पाकरसानिव ॥
लक्ष्मीवन्तो न जानन्ति प्रायेण परवेदनाम् ।
शेषे धारभरक्लान्ते शेते नारायणः सुखम् ॥
 

 

 

 

 

 
१०