This page has not been fully proofread.

106
 
संस्कृतद्वितीयादशे
 
यावत् समुल्लसति सर्वत्र भारते वर्षे । तत्राप्ययं दक्षिणापथे
सविशेषः प्रचरति ; यत्र हि परमकारुणिकाः श्रीकाञ्चीकामकोटि-
पीठाधिपतयः श्रीभृङ्गगिरि शारदापीठाधिपतयश्च धर्मसंस्थाप-
नार्थाय देशादेशं ब्रजन्तः शिष्यानुपदिशन्तः अधर्ममुच्चाटय-
न्ताद्वैतमतं श्रद्धया परिपालयन्तः प्रचारयन्तश्च चकासति ॥
 
प्रश्नाः – श्रीशंकराचार्यस्य शैशवं संन्यसनं चाधिकृत्य किं
जानीध्वे ? २. स कस्य सविधे वेदान्तमध्यैत ? ३. गुरुस्त
कस्मिन् कर्मणि न्ययुङ्क्त ? ४. गुरोराज्ञां शिरसा वन्ना-
चार्य: किं चकार ? ५. तस्य प्रधानभूताः शिष्याः के ?
६. सद्धर्मस्य स्थिरप्रतिष्ठार्थ स किमकरोत् ? स कदा कुत्र
परं धाम प्रपेदे ? तेन प्रतिष्ठापितो मतधर्मः कथम्भूतो
वर्तते ?
 
२) निर्दिष्टलकारैः वाक्यानि पूरयत-

 
१) विरत चित्तो नरः संन्यासग्रहणे मतिं बन्धू.... लट्
२) सद्वित्ररेव वदान् वेदाङ्गानि च अधि + इ...लङ्
३) केदारनाथक्षेत्रे स परं धाम प्र + पद्...लङ् ।
४) तदेकपुत्रा जनयित्री तस्येच्छां न अनु + मन्... लिट् ॥
३) उपसर्गयोगादात्मनेपदम्
 
स्था- तिष्ठति । आतिष्ठते, सतिष्ठते, अवतिष्ठते, प्रतिष्ठते,
वितिष्ठते, उपतिष्ठते ।
 
४) उप + गत्वा, उप + इत्वा, अधि + इत्वा, अधि + स्थित्वा
आ + स्थित्वा, आ + कृष्ट्वा, सं+ गृहीत्वा, अव + आप्त्वा
-एषां स्यबन्तरूपाणि लिखत ॥