This page has not been fully proofread.

105
 
एकत्रिंशः पाठः- श्रीशङ्कराचार्यः
आदिशचैनं पाखण्डैरभिभूयमानस्य सनातनस्य सद्धर्मस्य
परिपालनाय ॥
 
शिरसा बहन् गुरोराज्ञां श्रीशङ्कराचार्यः सर्वत्र पुण्यक्षेत्रेषु
सञ्चरन्नुपनिषद्भिरुपदिश्यमानमद्वैतं लोके प्रचारयामास ।
आवर्जयामास मधुरमधुरया वाग्धोरण्या जनतायाश्चेतांसि ।
खण्डयामास नास्तिकानां मतानि । स्थापयामास सर्वत्रास्ति-
कानां सम्मतं सद्धर्मम् । रचयामास हृद्यया शैल्या सूत्र-
भाग्यादिकान् परः शतान् ग्रन्थान् विविधानि स्तोत्ररत्नानि च ।
अध्यापयामास च नानादिग्भ्यः समागतान् परः सहस्रान्
शिष्यान् । तेषु प्रधानभूताः - पद्म पादाचार्यः, सुरेश्वराचार्यः,
हस्तामलकाचार्यः, तोटकाचार्यः इति चत्वारः शिष्याः ॥
 
D
 
तदनु श्रीशङ्कराचार्यो महता यत्नेनोज्जीवितस्य सद्धर्मस्य
स्थिरप्रतिष्ठार्थं वदर्या जगन्नाथे काञ्च्यां द्वारकायां च मठान्
प्रतिष्ठाप्य तत्र धर्मप्रवचनाय तान् शिष्यान् न्ययुक। स्वयं च
महीशूरदेशान्तर्गते शृङ्गगिरौ प्रतिष्ठापितं मठमधिष्ठाय पाठप्रवच-
नादिकं कुर्वन्नासाञ्चक्रे । यद्यप्ययं योगीश्वरो विष्णुशिवयोरमे-
दमातिष्ठत, तथाप्यस्य भगवति शिवे महती भक्तिरासीत् ।
अत एव तदनुगामिनो जनाः प्रायेण शिवभक्ताः एवोपलभ्यन्ते ॥
 
श्रीशङ्कराचार्योऽयमल्पीयसैव कालेन आसेतुहिमाचलं
स्वीयं नित्यशुद्धं यशो विस्तार्य द्वात्रिंशे वयसि केदारनाथक्षेत्रे
समाधिमास्थाय परं धाम प्रपेदे । तेन प्रतिष्ठापितो मतधर्मश्राद्य