This page has not been fully proofread.

6
 
द्वितीयाद
 
तेन ते पञ्चास्या इत्याख्यायन्ते । तेषामक्षिणी पिङ्गले भासुरे
च। सिंहेष्वतिदीर्घाः खरा नखराः परुषा दन्ताश्वेश्वरेण सृष्टाः॥
केसरिणो न सर्वत्र देशेषु निवसन्ति । आफ्रिका खण्डे
ते प्राचुर्येणोपलभ्यन्ते । भारतखण्डे तु ते पुरा शुतुया:
सिन्धोच मध्यवर्तिनि सिकतारण्ये न्यवसन् । इदानीं तु ते
गुर्जरदेशस्य दक्षिणतः स्थितेषु घोराराण्येषु वसन्ति ॥
 
मृगेन्द्राः प्राधान्येन मत्तैमैः सह विगृह्णन्तस्तेषां मूर्धान-
मारुह्य गण्डौ च भित्वा तत्रत्यं मांस भक्षयन्ति । एवं वने
स्थितानितरान् मृगानपि ते निम्नन्ति । यदा ते परितश्चरन्तो
न मृगान् विन्दन्ति तदा तारं गर्जन्ति । तद्द्वर्जनं श्रुत्वा सर्वे
मृगाः सभयमितस्ततो धावन्ति । तदा सिंहाः सत्वरं तेषामुपरि
निपत्य तान् विध्यन्ति ॥
 
कदाचिदाहारमलभमानः सिंहः सर्वावयवान् स्तब्धीकृत्य
भूमौ शेते । तथा शयानं तं दृष्ट्वा मृगास्तं मृतं मन्यमानास्त-
स्यान्तिके चरन्ति । मृगभागतं दृष्ट्वा सिंहो झटित्युत्थाय तं
गृह्णाति । इत्थं सिंहाः स्वबुद्धिकौशलेन जीविकां वर्तयन्ति ।
 
१) प्रश्ना:- १. सिंहः कीदृशो मृगः १
कीडशा: ?
 
२. सिंहानामवयनाः
३. सिंहाः कुत्र उपलभ्यन्ते ?
४. कीदृशस्तेषामाहारः १ ५. कथं च ते तं
लभन्ते ? ६. सिंहस्य बुद्धिकौशलं वर्णयत ॥
 
२) प्रयोगं त्रिपरिणमयत -
 
१) केसरिणो न सर्वत्र देशेषु वसन्ति ।