This page has not been fully proofread.

104
 
संस्कृतद्वितीयादर्श
 
मान कालटिनामकं जनपदं स्वजन्मना व्यभूषयत । तस्य पिता
परमभागवतः शिवगुरुः, माता च धर्मशीला आर्यास्त्रा । सोऽय-
माचार्यः अष्टाशीत्युत्तरसप्तशततमे क्रिस्त्वब्दे नन्नवत्सरे
वैशाखमासे शुक्लृपञ्चम्यां तिथौ पुनर्वसु नक्षत्रेऽभिजिन्मुहुर्ते
 
भुवमवातरत् ॥
 
स यदा पञ्चायनोऽभूत् तदा तस्य पिता शिवगुरु
दैवदुर्विपाकात् कालधर्मं गतः । आर्याम्वा च पत्युर्वियोगेन
खिन्नाऽपि सुतस्य भविकमनुध्यायन्ती तस्थौ । बालकम्य च
विद्याग्रहणे निरतिशयं पाटवं वीक्ष्य सातवत्सरे
बन्धुभिस्तस्योपनयनं कारयामास । अनुपद मेत्र गुरुकुलमुनीतः
स बालका द्विरेव वर्षः सर्वान् वेदान् वेदशानि विविधाः
भाषायाध्यग्रीष्ट ॥
 
अधीत्य च सर्वाणि शास्त्राण्यष्टहायनः कुमारी जगदिदं
मृगतृष्णिकायास्तुल्यमाकलयन् संन्यासग्रहणे मधिं ववन्ध ।
तदेकपुत्रा माता च तस्येच्छां नान्वमन्यत । अथापि स एकस्मि-
नहनि आत्मानं नक्रगृहीतम् अभिनयन्, संन्यासस्त्रीकरणे
नक्राद्विमुक्ति बोधयन् कथञ्चित् तां सान्त्वयन्नन्ततस्ततयाऽनुमो
गृहात प्रस्थितः संन्यासस्य दातारं गुरुमन्विष्यन् वाराणसी-
मगच्छत् । तत्र च गोविन्दाचार्य नाम महासंयमिनं शरण-
मुपेत्य तस्मात् संन्यासमधिगत्य तस्यैव सविधे वेदान्तमध्येत ॥
 
गोविन्दाचार्यस्तं कश्चित कालमध्यापयन् तस्य प्रतिभा-
शक्त्या विस्मितस्तं साक्षाच्चराचरगुरोः शङ्करस्यावतारमन्यतः