This page has not been fully proofread.

त्रिंशः पाठः- वाराणसी क्षेत्रम्
 
101
 
काशीक्षेत्रमिदं भारतीय विद्यायाः कुलभवनभिवाभाति ।
यतो ह्यत्र वेदाः पुराणानि शास्त्राणि च यथापुरमद्यत्वेऽपि
सश्रद्धमधीयन्ते हिन्दुमहाविश्वविद्यालये जनैः । पण्डित श्रीमदन
मोहन माळवीयमहाशयैः प्रतिष्ठापितः हिन्दु महाविश्वविद्यालयः
अत्र सुतरां चकास्ति । अत्रत्यं विद्यापीठमधिरूढो जनः
समस्तविद्यापारगत्वेन परिगण्यते । अत्र जनानां जीवि
तान्तिमक्षणे भगवान् विश्वनाथः कर्णे तारकंमन्त्रम् उपदिशति,
येन ते मुक्तिभाजो भवन्ति इत्यहो वाराणसी क्षेत्रमहिमा ॥
 
१) प्रश्नाः – १. भारतवर्षे प्रधानभूतानि पुण्यक्षेत्राणि कानि?
२. वाराणसी कीदृशं पुण्यक्षेत्रम् ? ३. के किमिति गङ्गा-
स्नानाथं काशीं गच्छन्ति ? ४ गङ्गातीरगतास्तीर्थशिलाः
कोहरौर्जनैराकीर्णा उपलभ्यन्ते ? ५. काशीनगरस्य शोभा
कीडशी ? ६. क्षेत्रमिदं कस्याः कुलभवनम्?
२) प्रयोगं विपरिणमयत-
१) नद्यास्तीरे विद्यमाना गृहपक्तिर्महतीं शोभां विभर्ति ।
२) वेदाः शास्त्राणि पुराणानि च सश्रद्धमधीयन्ते जनैः ।
३) निर्दिष्टेलकारः वाक्यानि पूरयत-
१) वसन्ते पद्मानि परां शोभां भृ...लटू ।
२) स्त्रियो भूषणैरात्मानम् अलं + कृ... लट् ।
४) अनुत्तमम्, अमूल्यम्, अनर्धम् - एतैः वाक्यानि रचयत ॥
५) कृत्प्रत्ययान्ताः –
 
ध्यै to meditate - ( ध्यायति) = ध्यातः, ध्यातवान्,
ध्यायन्, ध्यायमानः, ध्यात्वा, अनुध्याय, ध्यातुम्,
ध्यातव्यम्, ध्यानीयम्, ध्येयम् ।