This page has not been fully proofread.

त्रिंशः पाठः- -वाराणसी क्षेत्रम्
 
Wh
 
C.V. Raj
 
99
 
३०
 
वाराणसीक्षेत्रम्
 
सन्ति खलु भारतवर्षे तत्र तत्र बहूनि तीर्थक्षेत्राणि ।
तेषु- अयोध्या, मथुरा, माया, काशी, काञ्ची, अवन्तिका,
द्वारवतीत्येतानि प्रधानभूतानि । तत्रापि वाराणसी पुराणेष्वति-
शयेन वर्ण्यमानमनुत्तमं पुण्यक्षेत्रम् । सैव काशीत्युच्यते ।
सेषा भारतवर्षस्य पूर्वोत्तरभागेऽवतिष्ठते; यस्याः परिसरे
पुण्यसलिला भागीरथी प्रवहति ॥
 
गङ्गायां स्नानेन तत्तीर्थपानेन वा जनाः पूतात्मानो
मुक्ति प्राप्नुवन्तीति वेदाः पुराणानि चोद्घोषयन्ति ॥