This page has not been fully proofread.

96
 
संस्कृतद्वितीयादश
 
२९.
 
चाटुश्लोकाः
 
1
 
गजाननमहर्निशम्
भक्तानामे कदन्तमुपास्महे ॥
 
अगजाननपद्मार्क
अनेकदन्तं
 

 
आदिमध्यान्तरहितं दशाहीनं पुरातनम् ।
अद्वितीय महं वन्दे मद्रख सदृशं हरिम् ॥
वन्दे वाञ्छितलाभाय कर्म किं तन्न कथ्यते ।
कि दम्पतिमिति यामुताहो दम्पती इति ॥
सदा वक्रः सदा क्रूरः सदा मानधनापहः ।
कन्याराशिस्थितो नित्यं जामाता दशमो ग्रहः ॥
 
प्रातर्धतप्रसङ्गेन मध्याह्ने स्त्रीप्रसङ्गतः ।
रात्रौ चौर्यप्रसङ्गेन कालो गच्छति धीनताम् ॥
 

 
?
 

 

 
१) टिप्पणम् । चाटुश्लोकाः = रसानन्दजनकाः श्लोकाः-
१) गजाननः अपि अगजाननपझार्कः इति विरोधः ।
अगजायाः पार्वत्याः आननपद्मार्कः इति परिहारः ।
अनेकदन्तम् एकदन्तम् इति विरोधः । अनेकदं तम् इति
पदच्छेदेन परिहारः ॥
२) हरिः वस्त्रं च तुल्ये ।
 
विष्णो: दशा (वाल्याद्यवस्था) नास्ति ॥
वस्त्रस्य दशा ( अन्तम् ) नास्ति ।
३) दंपति पती इति उभयथाऽपि वक्तुं न शक्यते । आद्यः
व्याकणरीत्या असाधुः । अन्त्ये अर्थः न युज्यते, यतः
अर्धनारीश्वर स्वरूपम् एकम् ।