This page has not been fully proofread.

यात
 
द्वितीयः पाठः-
5
 
२. सिंहः
 
अपि युष्माभिः कदाऽपि कुत्रापि सिंहो दृष्टः ? नास्माभिः
दृष्टः । पश्यत, अत्रास्ति सिंहस्य चित्रम् । सिंहो न ग्राम्यः,
किन्तु वन्यो मृगः । अरण्यवासिनां शार्दूलसूकरादीनां मध्ये
सिंहः शूरो मानी गम्भीरो बलिष्टश्च । अनितरसाधारणेन
विक्रमेण स सर्वान मृगानतिशेते । अतः स 'मृगराज: ' इति
प्रथां भजते ॥
 
सिंहानां शिरमि कण्ठे च धूसराः केसराः सन्ति ।
अतस्ते केसरिण इत्यभिधीयन्ते । तेषामास्यमतीव विस्तृतम् ।