2023-06-28 11:06:05 by kpgadda

This page has been fully proofread once and needs a second look.

1
 
xxxii
 

 
न शास्ता न शास्त्रं न शिष्यो न शिक्षा

न च त्वं न चाहं न चायं प्रपञ्चः

स्वरूपावबोधो विकल्पासहिष्णुः
 

तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥७॥
 
1
 

 
न जाग्रनमे स्वप्नको वा सुषुप्तिः
 

न विश्वो न वा तैजसः प्राज्ञको वा:

अविद्यात्मकत्वात्रयाणां तुरीय:.

तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ८ ॥
 

 
अपि व्यापकत्वाद्वितत्वप्रयोगात्

स्वतस्सिद्धभावादनन्याश्रयत्वात्

जगत्तुच्छमेतत्समस्तं तदन्यत्

तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ९ ॥
 

 
न चैकं तदन्यत् द्वितीयं कुतस्यात्

न वा केवलत्वं न चाकेवलत्वम्

न शून्यं न चाशून्यमद्वैतकत्वात्
 

कथं सर्ववेदान्तसिद्धं ब्रवीमि ॥ १० ॥