2023-06-28 11:04:23 by kpgadda

This page has been fully proofread once and needs a second look.

श्रीमच्छङ्करभगवत्पादस्य कृतिः.

दशश्लोकी.
 

 
न भूमिर्न तोयं न तेजो न वायु-

र्न खं नेन्द्रियं वा न तेषां समूहः

अनैकान्तिकत्वात् सुषुप्त्येकसिद्धः

तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ १ ॥
 

 
न वर्णा न वर्णाश्रमाचारधर्माः
 

न मे धारणा ध्यानयोगादयोऽपि

अनात्माश्रयाहम्ममाध्यास हानात्

तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ २ ॥
 

 
न माता पिता वा न देवा न लोकाः

न वेदा न यज्ञा न तीर्थ ब्रुवन्ति

सुषुप्तौ निरस्तातिशून्यात्मकत्वात्

तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ३ ॥
 

 
न सांख्यं न शैवं न तत्पांचरात्रं
 

न जैनं न मीमांसकादेर्मतं वा

विशिष्टानुभूत्या विशुद्धात्मकत्वात्

तदेकोऽवशिष्टः शिवः केव: लोऽहम् ॥ ४॥
 

 
न चोर्ध्वं न चाधो नचान्तर्न बाह्यं
 

न मध्यं न तिर्यङ् न पूर्वापरादिक

वियद्व्यापकत्वादखण्डेकरुपः
 

तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥५॥
 

 
न शुलं न कृष्णं न रक्तं न पीतं
 

न कुब्जं न पीनं न ह्रस्वं न दीर्घम्

अरुपं तथा ज्योतिराकारकत्वात्
 

तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ६ ॥
 
7