This page has not been fully proofread.

4
 
श्यामलादण्डकं कालिदासविरचितम्
 
श्रवणहरदक्षिणक्वाणया वीणया किन्नरैर्गीयसे
यक्षगन्धर्वसिद्धाङ्गना मण्डलैरर्च्यसे
 
सर्वसौभाग्यवाञ्छावतीभिर् वधूभिस्सुराणां समाराध्यसे
सर्वविद्याविशेषत्मकं चाटुगाथा समुच्चारणाकण्ठमूलोल्लसद्-
वर्णराजित्रयं कोमलश्यामलोदारपक्षद्वयं तुण्डशोभातिदूरीभवत्
किंशुकं तं शुकं लालयन्ती परिक्रीडसे
 
पाणिपद्मद्वयेनाक्षमालामपि स्फाटिकीं ज्ञानसारात्मकं var मालागुण
 
पुस्तकञ्चङ्कुशं पाशमाबिभ्रती तेन सञ्चिन्त्यसे तस्य
वक्रान्तरात् गद्यपद्यात्मिका भारती निस्सरेत् येन वाध्वंसनादा
कृतिर्भाव्यसे तस्य वश्या भवन्तिस्तियः पूरुषाः येन वा
शातकंबद्युतिर्भाव्यसे सोऽपि लक्ष्मीसहस्रैः परिक्रीडते
 
किन्न सिद्ध्येद्वपुः श्यामलं कोमलं चन्द्रचूडान्वितं
तावकं ध्यायतः तस्य लीला सरोवारिधीः तस्य केलीवनं
नन्दनं तस्य भद्रासनं भूतलं तस्य गीर्देवता किङ्करि
तस्य चाज्ञाकरी श्री स्वयं
 
सर्वतीर्थात्मिके सर्व मन्त्रात्मिके
सर्व यन्त्रात्मके सर्व तन्त्रात्मिके
सर्व चक्रात्मिके सर्व शक्त्यात्मिके
सर्व पीठात्मिके सर्व वेदात्मिके
सर्व विद्यात्मिके सर्व योगात्मिके
सर्व वर्णात्मिके सर्वगीतात्मिके
सर्व नादात्मिके सर्व शब्दात्मिके
सर्व विश्वात्मिके सर्व वर्गात्मिके
सर्व सर्वात्मिके सर्वगे सर्व रूपे
 
जगन्मातृके पाहि मां पाहि मां पाहि मां
 
देवि तुभ्यं नमो देवि तुभ्यं नमो देवि तुभ्यं नमो
देवि तुभ्यं नमः
 
॥ इति श्यामला दण्डकम् सम्पूर्णम् ॥
 
Encoded and proofread by P. P. Narayanaswami (swami@math.mun.ca)
and srirama at navayuga.com, Avinash
 
sanskritdocuments.org